संस्कृत-शब्दकोशः

लोणाम्ला लोत

लोणार

वाचस्पत्यम्

लोणार ||‍ न० लवणमृच्छति कारणत्वेन ऋ—अण् उप० स० । पृषो० लवणजे क्षारभेदे राजनि० ।


शब्दकल्पद्रुमः

लोणारं || क्ली (लवणं ऋच्छतीति । लवण + ऋ + अण् । पृषोदरादित्वात् साधुः ।)
क्षारविशेषः । तत्पर्य्यायः । लवणोत्थम् २ लवणाकरजम् ३ लवणमदः ४ जलजम् ५ लवणक्षारः ६ लवणः ७ । अस्य गुणाः । अत्युष्णत्वम् । तीक्ष्णत्वम् । पित्त- वृद्धिकारित्वम् । क्षारत्वम् । ईषल्लवणत्वम् । वात- गुल्मादिशूलनाशित्वञ्च । इति राजनिर्घण्टः ॥



Correction: