वाचस्पत्यम्
लोत्र || न० लू—ष्ट्रन् । १ चक्षुर्जले, २ चोरितधने च संक्षिप्तमा० ।
शब्दकल्पद्रुमः
लोत्रं || क्ली (लूनातीति । लू + “सर्व्वधातुभ्यष्ट्रन् ।” उणा० ४ । १५८ । इति ष्ट्रन् । यद्बा, ला + “अशित्रादिभ्य इत्रोत्रौ ।” उणा० ४ । १७२ । इति उत्रः । इत्युज्ज्वलः ।)
लोतम् । इति शब्दरत्नावली ॥ नेत्रजलम् । इति संक्षिप्त- सारोणादिवृत्तिः ॥