वाचस्पत्यम्
लोम || न० लू—मन् । देहजाते केशाकारे १ रोमाख्ये द्रव्ये अमरः । तत्प्रधाने २ लाङ्गूले न० जटा० ।
शब्दकल्पद्रुमः
लोमं || क्ली लाङ्गूलम् । इति जटाधरः ॥ (रोम । यथा, तैत्तिरीयसंहितायाम् । ५ । १ । ६ । २ । “अथो शन्त्वायाजलोमैः संसृजत्येषा वा अग्नेः प्रिया तणूर्यदजेति ॥”)