संस्कृत-शब्दकोशः

लोमन् लोमपादपू

लोमपाद

वाचस्पत्यम्

लोमपाद ||‍ पु० लोमयुक्तौ पादावस्य शा० त० । अङ्गदेशस्थे नृपभेदे रामा०


शब्दकल्पद्रुमः

लोमपादः || पुं, (लोमानि पादयोर्यस्य ।)
अङ्ग- देशीयराजविशेषः । स तु ऋष्यशृङ्गमुनि- श्वशुरः । इति रामायणम् ॥ (अयं हि सूर्य्य- वंशावतंसस्य दशरथस्य सखा । विप्रावमान- नात एवास्य राष्ट्रे बहुकालं अवग्रहः सम्बभूव तत एवासौ काश्यपं ऋष्यशृङ्गं स्वराष्ट्रे आनीय शान्तां नाम दशरथकन्यामस्मै दत्त- वान् । एतद्वृत्तान्तन्तु महाभारते वनपर्व्वणि ११० अध्यायतो विशेषतो द्रष्टव्यम् ॥)



Correction: