वाचस्पत्यम्
लोमश || पु० लोमानि बाहुल्येन सन्त्यस्य श! १ मुनिभेदे २ मेषे ३ लोमयुक्ते त्रि० मेदि० । ४ काकजङ्घायां ५ जटा- मांस्यां, ६ वचायाम् ७ शुकशिम्ब्याम् ८ महामेदायां ९ काशीसे १० शाकिनीभेदे च स्त्री मेदि० ११ शणपुष्फ्याम् १२ अतिबलायां च स्त्री विश्वः । १३ बन्धमांस्यां स्त्री रजनि० ।
शब्दकल्पद्रुमः
लोमशः || पुं, (लोमानि सन्त्यस्येति । लोमन् + “लोमादिभ्यः शः ।” इति शः ।)
मुनिविशेषः । (मुनिवरोऽयं तीर्थगमनाभिलाषिणः सानुजस्य युधिष्ठिरस्यानुगामी सर्व्वतीर्थवृत्तान्तमस्मै विज्ञा- पयामासेति महाभारते वनपर्व्वणि द्रष्टव्यम् ॥ * ॥
)
मेषः । अतिलोमान्विते, त्रि । इति मेदिनी । शे, २७ ॥ यथा, —
“कदाचिद्दन्तुरो मूर्खः कदाचिल्लोमशः सुखी ॥” इति सामुद्रकम् ॥ (धान्यापहरणरूपकर्म्मविपाकात् लोमशो भवति । यथा, महाभारते । १३ । १११ । ११९ । “ध्यान्यं हृत्वा तु पुरुषो लोमशः संप्रजायते ॥”)