संस्कृत-शब्दकोशः

लोमशमार्जार लोमशातन

लोमशा

शब्दकल्पद्रुमः

लोमशा || स्त्री (लोमानि सन्त्यस्या इति । लोमन् + श । टाप् ।)
काकजङ्घा । मांसी । (अस्याः पर्य्यायो यथा, —
“नलदं नन्दिनी पेषी मांसी कृष्णजटा जटी । किरातिनी च जटिला लोमशा तु तपस्विनी ॥” इति वैद्यकरत्नमालायाम् ॥)
वचा । (अस्याः पर्य्यायो यथा, —
“वचोग्रगन्धा षड्ग्रन्था गोलोमी शतपर्व्विका । क्षुद्रपत्री च मङ्गल्या जटिलोग्रा च लोमशा ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)
शूकशिम्बिः । महामेदा । कासीसम् । शाकिनी- भेदः । इति मेदिनी । शे, २७ ॥ अतिवला । इति विश्वः ॥ शणपुष्पी । एर्व्वारुः । गन्धमांसी । इति राजनिर्घण्टः ॥



Correction: