लोलित
लोलुभ
लोलुप
वाचस्पत्यम्
लोलुप(भ) || त्रि० लुभ—यङ् अच् पृषो० भस्य वा पः । अति- लोभयुक्ते अमरः ।
शब्दकल्पद्रुमः
लोलुपः || त्रि (गर्हितं लुम्पतीति । लुप + यङ् + अच् ।)
अतिलुब्धः । इत्यमरः ॥ (यथा, माघे । १ । ४० । “तथापि वाचालतया युनक्ति मां मिथस्त्वदाभाषणलोलुपं मनः ॥”)