वाचस्पत्यम्
लोलुभ is an alternate of लोलुप. लोलुप(भ) || त्रि० लुभ—यङ् अच् पृषो० भस्य वा पः । अति- लोभयुक्ते अमरः ।
शब्दकल्पद्रुमः
लोलुभः || त्रि (भृशं लुभ्यतीति । लुभ + यङ् + अच् ।)
लोलुपः । इत्यमरः ॥ (यथा, कथा- सरित्सागरे । ११७ । ४६ । “स्त्रियोऽपीच्छन्ति पुंभावं यं दृष्ट्वा रूपलोलुभाः । तस्यास्ते को भवेन्नार्थी तुल्यरूपः स किं पुनः ॥”)