संस्कृत-शब्दकोशः

लोष्टघ्न लोष्टु

लोष्टभेदन

वाचस्पत्यम्

लोष्टभेदन ||‍ पु० लोष्टं मिनत्ति विमर्दयति भिद—ल्यु । लोष्टभेदनसाधके मुद्गरादौ भरतः ।


शब्दकल्पद्रुमः

लोष्टभेदनः || पुं, (भिनत्तीति । भिद् + ल्युः । लोष्टस्य भेदनः ।)
लोष्टभङ्गसाधनमुद्गरः । मै इति ख्याते इति केचित् । तत्पर्य्यायः । लेष्टुभेदनः २ लोष्टघ्नः ३ लेष्टुघ्नः ४ कोटिशः ५ कोटीशः ६ । इत्यमरटीका ॥



Correction: