वाचस्पत्यम्
लोहकण्टक || पु० लोहमिव कठिनः कण्ठको यस्य । १ मदन- वृक्षे शब्दच० । २ लोहमयवण्टके च ।
शब्दकल्पद्रुमः
लोहकण्टकः || पुं, (लोहवत् कण्टकं यत्र ।)
मदनवृक्षः । इति शब्दचन्द्रिका ॥ लौहमय- कण्टकश्च ॥ (यथा, आर्य्यासप्तशत्याम् । ४७४ । “सखि लोहकण्टकनिभस्तथा तथा मदन- विशिखोऽपि ॥”)