संस्कृत-शब्दकोशः

लोहकान्त लोहकारक

लोहकार

वाचस्पत्यम्

लोहकार ||‍ पु० लोह तन्मयं शस्त्रादि करोति कृ—अण । कम कारे । ण्वुल् । लोहकारकाऽप्यत्र । “गोपालात् तन्तुवार्य्या वै कर्मकारोऽभवत् सुतः” पराशरोक्ते जातिभेदे पुंस्त्री ।


शब्दकल्पद्रुमः

लोहकारः || पुं, (लोहं लोहमयं शस्त्रादि करो- तीति । कृ + अण् ।)
लौहकारकः । इति हलायुधः ॥ (यथा, गो० रामायणे । २ । ९० । २३ । “प्रख्याताश्चर्म्मकाराश्च लोहकारास्तथैव च ॥”)



Correction: