वाचस्पत्यम्
लोहचूर्ण || न० ६ त० । (लोहाचुर) ख्यात १ पदार्थे २ लोहमले राजनि० ।
शब्दकल्पद्रुमः
लोहचूर्णं || क्ली (लोहस्य चूर्णम् ।)
लोहकिट्टम् । इति राजनिर्घण्टः ॥ (यथा, बृहत्संहितायाम् । ७६ । ३ । “माक्षीकधातुमधुपारदलोहचूर्ण- पथ्याशिलाजतुविडङ्गकृतानि योऽद्यात् । सैकानि विंशतिरहानि जरान्वितोऽपि सोऽशीतिकोऽपि रमयत्यबलां युवेव ॥”)