वाचस्पत्यम्
लोहपृष्ठ || पुंस्त्री० लोहमिव कठिनं पृष्ठमल । कङ्कपक्षिणि अमरः स्त्रियां ङीष् ।
शब्दकल्पद्रुमः
लोहपृष्ठः || पुं, (लोहस्येव कठिनं श्यामलं वा पृष्ठं यस्य ।) कङ्कपक्षी । इत्यमरः ॥ लौहमय- पृष्ठयुक्ते, त्रि ॥