संस्कृत-शब्दकोशः

लोहप्रतिमा लोहमारक

लोहमय

शब्दकल्पद्रुमः

लोहमयं || त्रि लोहात्मकम् । लोहनिर्म्मितम् । लोहशब्दात् तद्रूपार्थे मयट्प्रत्ययेन निष्पन्नम् ॥ (यथा, छान्दोग्योपनिषदि । ६ । १ । ५ । “यथा सौम्यैकेन लोहमणिना सर्व्वं लोहमयं विज्ञातं स्याद्बाचारम्भणं विकारो नामधेयं लोहमित्येव सत्यम् ॥”)



Correction: