शब्दकल्पद्रुमः
लोहिनी || स्त्री (लोहिता + “वर्णादनुदात्ता- दिति ।” ४ । १ । ३९ । इति ङीप् । तकारस्य नकारादेशश्च ।) रक्तवर्णा स्त्री । यथा, — “रोहिणी रोहिता रक्ता लोहिनी लोहिता च सा ॥” इति जटाधरः ॥