वाचस्पत्यम्
लौहज || न० लौहात लौहाभ्यां जायते वा जन—ड । १ मण्डूरे रमा० । धातुद्वयजे कांस्यपित्तलादौ च ।
शब्दकल्पद्रुमः
लौहजं || क्ली (लौहात् जायते इति । जन् + डः ।) मण्डूरम् । इति रत्नमाला ॥