वाचस्पत्यम्
लौहभाण्ड || पु० लोहस्य विकारः अण् कर्म० । (हामान- टिस्ता) २ लौहमये पात्रभेदे शब्दच० । ३ लोहमयपात्र- मात्रे न० ।
शब्दकल्पद्रुमः
लौहभाण्डः || पुं, (लौहस्य भाण्डमिवाकृतिर्यत्र ।)
अश्मभालम् । इति शब्दचन्द्रिका ॥ हामन्- दिस्ता इति भाषा । लौहनिर्म्मितभाण्डे, क्ली ॥