वाचस्पत्यम्
लौहमल || न० लोहस्येदमण् कर्म० । लोहकिट्टे राजनि० ।
शब्दकल्पद्रुमः
लौहमलं || क्ली (लौहस्य मलम् ।)
लोहमलम् । इति राजनिर्घण्टः ॥ (तथास्य विषयः । “सद्यो लौहमलाज्यमाक्षिकसिताभागाः समा मानतः पात्रे ताम्रमये दिनान्तमथितं संस्थापये- दातपे पश्चात्तद्घनतां प्रणीय रजनीमेकां बहिः स्थापयेत् । पात्रे ताम्रमये विधेयमथवा पात्रे बवि- र्भाविते ॥ पश्चान्माषचतुष्टयं प्रतिदिनं जग्ध्वा जलं शीतलम् । पेयं भोजनपूर्ब्बमध्यविरतोऽस्वच्छन्दभोज्यैर्नरैः ॥ जेतुं शूलहुताशमान्द्यकसनश्वासाम्लपित्तज्वरो- न्मादापस्मृतिमेहसर्व्वजठराजीणादि सर्व्वा रुजः ॥” इति भैषज्यधन्वन्तरौ शूले चतुःसममण्डूरम् ॥)