वाचस्पत्यम्
वकपञ्चक || न० । कार्त्तिकशुक्लपक्षस्यैकादश्यादितिथिपञ्चके । तत्र मत्स्यादवकैरपि मत्स्यत्यागेन व्रताचरणात् तथात्वम्
शब्दकल्पद्रुमः
वकपञ्चकं is an alternate of बकपञ्चकं. ब(व)कपञ्चकं || क्ली (बकोपलक्षिताः पञ्च तिथयो यत्र कप् । बकोऽपि तत्र नाश्नीयादिति वचना- देव तथात्वम् ।)
कार्त्तिकशुक्लैकादश्यादिपञ्च- तिथ्यात्मकम् । यथा, —
“तत्रैकादश्यादितिथिपञ्चके बकपञ्चकम् । बकोऽपि तत्र नाश्नीयान्मत्स्यञ्चैव कदाचन ॥ इति वचनात् ।” इति कृत्यतत्वम् ॥ “किञ्च । कार्त्तिकमधिकृत्य ब्रह्मपुराणम् । ‘एकादश्यादिषु तथा तासु पञ्चसु रात्रिषु । दिने दिने च स्नातव्यं शीतलासु नदीषु च । वर्ज्जितव्या तथा हिंसा मांसभक्षणमेव च ॥’ ततश्च मांसभक्षणनिषेधे कार्त्तिकमासतच्छुक्ल- पक्षतदेकादश्यादिपञ्चदिनानि शक्ताशक्तभेदात् पापतारतम्याद्वा निषिद्धानि ।” इति तिथ्यादि- तत्त्वम् । अपि च । “एकादशीं समारभ्य यावत् पञ्चदशी भवेत् । बकोऽपि तत्र नाश्नीयान्मीनं मांसञ्च किं नरः ॥” इति संवत्सरकौमुदीधृतब्रह्मपुराणवचनम् ॥