वाचस्पत्यम्
वकव्रतपर || पु० वक इव व्रतं धारयति धृ—अच् । “अधो- दृष्टिर्नैकृतिकः स्वार्थसाधनतत्परः । शठो मिथ्याविनी- तश्च वकव्रतधरो द्विजः” इत्युक्ते स्वार्थसाधनतत्परे वञ्चके विप्रादौ ।