वाचस्पत्यम्
वकारः || व्यञ्जनवर्णभेदः । स च स्पर्शोष्मवर्णयोरन्तःस्थितत्वात् अन्तःस्थवर्णभेदः अस्योच्चारणस्थानं दन्तोष्टौ “दन्त्याष्ठ्यो वः स्मृतो बुधैः” शिक्षोक्तेः । अस्योच्चारणे जिह्वा- ग्रेण दन्तौष्ठयोरीषत्स्पर्शात् ईषत्स्पृष्टता आभ्यन्तर- प्रयत्नः । बाह्यप्रयत्नाश्चास्य विवारनादघोषा अल्पप्राणश्च । अस्य दन्त्यौष्ठ्यत्वात् दन्त्यत्वं क्वचिच्च ओष्ठ्यत्वमाश्रित्य कार्य्यभेदस्तेन संवुपूर्षतीत्यादौ ओष्ठ्यत्वमाश्रित्य लः अण- परः । दन्त्यत्वमाश्रित्य च अनुस्वारस्थाने अनुनासिको बो वा पक्षे अनुस्वारस्थितिः । अस्य मातृकान्यासे वाम- स्कन्धे न्यस्यता । काव्यादौ प्रयोगे “व्यसनमथ लवौ” वृ० र० टी० उक्तेः व्यसनं फलम् । वर्णाभिधाने अस्य वा० चकशब्दा उक्ता यथा “वो वाणो वारुणी सूक्ष्मा वरुणो मेदसंज्ञकः । खड्गीशो ज्वालिनी वक्त्रं कलसो वारिवाचकः । उत्कारी शालिनी शान्ता वातः स्फिक सागरः शुचिः । इन्द्रधारा च वामांसः करमूलं च न- र्त्तकः । जगद्भाषी सारिणी च देवोऽलिङ्गोऽनिरुद्धकः । गिरिराजो निवृत्तात्मा व्यङ्कद्या निन्दिनी करः” अस्य ध्येयस्वरूपं यथा “वकारं चञ्चलापाङ्गि! कुण्डली मोक्षमव्ययम । पञ्चप्राणमयं वर्णं त्रिशक्तिसहितं सदा । त्रिविन्दुसहितं वर्णमात्मादतत्त्वसंयुतम् । पञ्चदेवमयं वृर्णं पीतविद्युल्लतोपमम् । चतुर्वर्गप्रदं वर्णं सर्वसिद्धि- प्रदायकम्” कामधेनुत० “अस्याधिष्ठातृध्येयरूपं यथा “कुन्द- पुष्पप्रभां देवीं द्विभुजां पङ्कजेक्षणाम् । शुक्लमाल्याम्बर- धरां रत्नहारोज्ज्वलां पराम् । साधकाभीष्टदां सिद्धा सिद्धिदां सिद्धसेविताम् । एवं ध्यात्वा वकारं तु तन्मन्त्रं दशधा जपेत्” वर्णोद्धारतन्त्रम् ।