वाचस्पत्यम्
वकुल || पु० वकि—कुलच् नलोपः । १ स्वनामख्याते पुष्पवृक्षे अमरः । २ कटुकायां स्त्री राजनि० टाप् । काकोल्यां ङीप् पृषो० । वकूलोऽपि वकुले पु० । “वकुलो मधुगन्धश्च सिंहकेसरकस्तथा । वकुलस्तुवरोऽ- नुष्णः कटुः पाके रसे गुरुः । कफपित्तविषश्वित्रि कृमि- दन्तगदापहः” भावप्र० । अस्य ओष्ठ्यादित्वमिच्छन्त्यन्ये ।
शब्दकल्पद्रुमः
वकुलः is an alternate of बकुलः. ब(व)कुलः || पुं, (ब(व)ङ्कते इति । ब(व)कि कौटिल्ये + “मद्गुरादयश्च ।” उणा० १ । ४२ । इति उरच् प्रत्ययरेफस्य लत्वं बङ्केर्नलोप- श्चेत्युज्ज्वलदत्तः ।)
स्वनामख्यातपुष्पवृक्षः । तत्- पर्य्यायः । केसरः २ । इत्यमरः । २ । ४ । ६४ ॥ केशरः ३ । इति भरतः ॥ बकूलः ४ सिंह- केसरः ५ वरलब्धः ६ सीधुगन्धः ७ मुकूलः ८ मुकुलः ९ । इति शब्दरत्नावली ॥ स्त्रीमुख- मधु १० दोहलः ११ मधुपुष्पः १२ सुरभिः १३ भ्रमरानन्दः १४ स्थिरकुसुमः १५ शारदिकः १६ करकः १७ सीसंज्ञः १८ विशारदः १९ गूढ- पुष्यकः २० धन्वी २१ मदनः २२ मद्यामोदः २३ चिरपुष्पः २४ ॥ (यथा, महाभारते । १ । ६३ । ४२ । “पुन्नागैः कर्णिकारैश्च बकुलैर्दिव्यपाटलैः ॥”)
अस्य गुणाः । शीतलत्वम् । हृद्यत्वम् । विष- दोषनाशित्वम् । मधुरत्वम् । कषायत्वम् । मदाढ्यत्वम् । हर्षदायकत्वञ्च ॥ तत्कुसुमगुणाः । रुच्यत्वम् । क्षीराढ्यत्वम् । सुरभित्वम् । शीत- लत्वम् । मधुरत्वम् । स्निग्धत्वम् । कषायत्बम् । मलसंग्रहकारकत्वञ्च । इति राजनिर्घण्टः ॥ अपि च । “बकुलो मधुगन्धश्च सिंहकेसरकस्तथा । बकुलस्तु वरोऽनुष्णः कटुः पाके रसे गुरुः ॥ कफपित्तविषश्वित्रकृमिदन्तगदापहः ॥” इति भावप्रकाशः ॥ तत्फलगुणाः । “बकुलं मधुरं ग्राहि दन्तस्थैर्य्यकरं परम् ॥” तत्पुष्पगुणाः । “पद्मं कषायं मधुरं शीतं पित्तकफास्रनुत् । तद्बत् बकुलपुन्नागकह्लारोत्पलपाटलम् ॥” इति राजवल्लभः ॥ अस्योत्पत्तिर्यथा, —
“विचरन्तं तदा भूयो महेशं कुसुमायुधः । आरात् स्थित्याग्रतो धन्वी सन्तापयितुमुद्यतः ॥ ततस्तमग्रतो दृष्ट्वा क्रोधाध्मातदृशा हरः । स्मरमालोकयामास शिखाग्राच्चरणान्तिकम् ॥ आलोकितस्त्रिनेत्रेण मदनो द्युतिमानपि । प्रादह्यत तदा ब्रह्मन् ! पादादारभ्य कक्ष्यवत् ॥ प्रदह्यमानौ चरणौ दृष्ट्वासौ कुसुमायुधः । उत्ससर्ज धनुः श्रेष्ठं तज्जगामाथ पञ्चधा ॥ यदासीन्मुष्टिबन्धन्तद्रुक्मपृष्ठं महाप्रभम् । स चम्पकतरुर्जातः स्रग्गन्धाढ्यो गुणाकृतिः ॥ नाहस्थानं शुभाकारं यदासीद्बज्रभूषितम् । तज्जातं केशवारण्यं बकुलं नामतो नगैः ॥ या च कोटी शुभा ह्यासीदिन्द्रनीलविभूषिता । जाता सा पाटला रम्या भृङ्गराजिविराजिता ॥ नाहोपरि तथा मुष्टौ स्थानं चन्द्रमणिप्रभम् । पञ्चगुल्माभवज्जाती शशाङ्ककिरणोज्ज्वला ॥ ऊर्द्ध्वं मुष्ठ्या अधः कोट्याः स्थानं विद्रुमभूषितम् । तस्मात् बहुपुटा मल्ली संजाता विविधा मुने ! ॥” इति श्रीवामनपुराणे ६ अध्यायः ॥ (शिवः । यथा, महाभारते तस्य सहस्रनाम- कीर्त्तने । १३ । १७ । १०९ । “बणिको वर्द्धकी वृक्षो बकुलश्चन्दनश्छदः । सारग्रीवो महाजत्रुरलोलश्च महौषधः ॥”)