वाचस्पत्यम्
वक्तव्य || त्रि० वच—तव्य । १ कुत्सिते २ हीने ३ दुष्टे च मेदि० “दिवा वक्तव्यता पाले” स्मृतिः । ४ कथनीये च । भावे क्त । ५ कथने ६ दूषणे च न० ।
शब्दकल्पद्रुमः
वक्तव्यः || त्रि (ब्रू वच् वा + तव्यः ।)
कुत्सितः । हीनः । (यथा, मनुः । ८ । ६६ । “नाध्यधीनो न वक्तव्यो न दस्युर्न विकर्म्मकृत् ॥”)
वचनार्हः । इति मेदिनी । ये, १०३ ॥ (यथा, महाभारते । १४ । ७६ । २३ । “वक्तव्याश्चापि राजानः सर्व्वे सह सुहृज्जनैः । युधिष्ठिरस्याश्वमेधो भवद्भिरनुभूयताम् ॥” वच् + भावे तव्य ।)
वचने, क्ली ॥