वाचस्पत्यम्
वक्त्रभेदिन् || पु० वक्त्रं भिनत्ति मिद—णिनि । १ तिक्तरसे हेमच० । २ मुखविदारके त्रि० स्त्रियां ङीप् ।
शब्दकल्पद्रुमः
वक्त्रभेदी || [न्] पुं, (वक्त्रं भिनत्तिति । भिद् + णिनिः ।) तिक्तरसः । इति हेमचन्द्रः । ६ । २५ ॥ मुखभेदके, त्रि ॥