वाचस्पत्यम्
वक्रग्रीव || पुंस्त्री० वक्रा ग्रीवा यस्य । १ उष्ट्रे त्रिका० स्त्रियां ङीष् । ३ कुटिलग्रीवायुते त्रि० स्त्रियां टाप् ।
शब्दकल्पद्रुमः
वक्रग्रीवः || पुं, (वक्रा ग्रीवास्य ।) उष्ट्रः । इति त्रिकाण्डशेषः ॥