शब्दकल्पद्रुमः
वक्रतुण्डः || पुं, (वक्रन्तुण्डं यस्य ।) शुकपक्षी । इति शब्दरत्नावली ॥ (वक्रौष्ठे, त्रि । यथा, भागवते । ६ । १ । २८ । “स पाशहस्तांस्त्रीन् दृष्ट्वा पुरुषानतिदारुणान् । वक्रतुण्डानूर्द्ध्वरोम्न आत्मानं नेतुमागतान् ॥”)