वाचस्पत्यम्
वक्रपुष्प || न० वक्राणि पुष्पाण्यस्य । १ वकवृक्षं शब्दर० २ पलाशवृक्षे च राजनि० ।
शब्दकल्पद्रुमः
वक्रपुष्पः || पुं, (वक्राणि पुष्पाण्यस्य ।) वकवृक्षः । इति शब्दरत्नावली ॥ पलाशवृक्षः । इति राजनिर्घण्टः ॥