शब्दकल्पद्रुमः
वक्रवक्त्रः || पुं, (वक्रं वक्त्रं मुखमस्य ।) शूकरः । इति शब्दरत्नावली ॥ कुटिलमुखविशिष्टे, त्रि ॥