संस्कृत-शब्दकोशः

वक्राग्र वक्रि

वक्राङ्ग

वाचस्पत्यम्

वक्राङ्ग ||‍ पुंस्त्री० वक्राण्यङ्गान्यस्य । १ हंसे स्त्रियां ङीष् । २ कुटिलावयवयुते त्रि० स्त्रियां वा ङीप् । कर्म० ३ कुटिले देहे न० ।


शब्दकल्पद्रुमः

वक्राङ्गः || पुं, (वक्रमङ्गं यस्य ।)
हंसः । इति हेमचन्द्रः ॥ कुटिलावयवे, क्ली ॥ (कुटिलाव- यवविशिष्टे, त्रि । यथा, हरिवंशे । १०२ । ३८ । “तरङ्गविषमापीडा चक्रवाकोन्मुखस्तनी । वेगगम्भीरवक्राङ्गी त्रस्तमीनविभूषणा ॥”)



Correction: