वाचस्पत्यम्
वक्रोक्ति || स्त्री कर्म० । १ कुटिलोक्तौ “अन्यस्यान्यार्थकं वाक्य- मन्यथा योजयेद्यदि । अन्यः श्लेषेण काक्का वा सा वक्रोक्तिस्ततो द्विधा” सा० द० उक्ते २ अर्थालङ्कारभेदे ३ काकुवचने च ।
शब्दकल्पद्रुमः
वक्रोक्तिः || स्त्री (वक्रा कुटिला उक्तिः ।)
काकूक्तिः । यथा, कामधेनुकल्पतरुधृतब्रह्म- पुराणम् । “अथ वृत्ते वृषोत्सर्गे दाता वक्रोक्तिभिः पदैः । ब्राह्मणानाह यत् किञ्चित् मयोत्सृष्टन्तु निर्ज्जने ॥ तत् कश्चिदन्यो न नयेन्न विभाज्यं यथाक्रमम् । न बाह्यं न च तत् क्षीरं पातव्यं केनचित् क्वचित् ॥” कृत्यप्रदीपेऽप्येवम् । वक्रोक्तिभिः काकूक्तिभिः । इति शुद्धितत्त्वम् ॥ * ॥
कुटिलोक्तिः । यथा, “वादी व्याकरणं विनैव विदुषां धृष्टः प्रविष्टः सभां जल्पन्नल्पमतिः स्मयात् पटुवटुर्भ्रूभङ्गवक्रो- क्तिभिः । ह्रीतः सन्नुपहासमेति गणको गोलानभिज्ञस्तथा ज्योतिर्व्वित्सदसि प्रगल् भगणकः प्रश्नप्रपञ्चो- क्तिभिः ॥” इति सिद्धान्तशिरोमणौ गोलाध्यायः ॥ (वक्रा अर्थान्तरग्रहणेन कुटिला उक्तिः । शब्दालङ्कारप्रभेदः । तल्लक्षणादिकं यथा, साहित्यदर्पणे दशमपरिच्छेदे । “अन्यस्यान्यार्थकं वाक्यमन्यथा योजयेद् यदि । अन्यः श्लेषेण काक्वा वा सा वक्रोक्तिस्ततो द्विधा ॥ द्विधेति श्लेषवक्रोक्तिः काकुवक्रोक्तिश्च । क्रमे- णोदाहरणं यथा, —
“के यूयं स्थल एव सम्प्रति वयं प्रश्नो विशेषाश्रयः किं ब्रूते विहगः स वा फणिपतिर्यत्रास्ति सुप्तो हरिः । वामा यूयमहो विडम्बरसिकः कीदृक् स्मरो वर्त्तते येनास्मासु विवेकशून्यमनसः पुंस्वेव योषिद् भ्रमः ॥” अत्र विशेषपदस्य विः पक्षी शेषो नाग इति अर्थद्वययोगात् सभङ्गः श्लेषः । अन्यत्र तु अभङ्गः । “काले कोकिलवाचाले सहकारमनोहरे । कृतागसः परित्यागात् तस्याश्चेतो न दूयते ॥” अत्र कयाचित् सख्या निषेधार्थे नियुक्तो नञ् अन्यया काक्वा दूयत एवेति विध्यर्थे घटितः ॥”)