शब्दकल्पद्रुमः
वक्ष्यमाणः || त्रि भविष्यत्कथनीयविषयः । वच- धातोः स्यमानप्रत्ययेन निष्पन्नः । यथा । अत्र वक्ष्यमाणवचनात् मध्यरात्रप्राप्तावेव जयन्ती- त्वम् । इति तिथ्यादितत्त्वम् ॥ अपि च । “तत्रैव द्वादशीमध्ये पारणं श्रवणोऽधिके । वक्ष्यमाणञ्च घटतेऽन्यथा प्राग्वद्द्विधा व्रतम् ॥” इति श्रीहरिभक्तिविलासे १५ विलासः ॥