शब्दकल्पद्रुमः
वगलामुखी || स्त्री दशमहाविद्यान्तर्गतदेवी- विशेषः । तदुक्तं तन्त्रान्तरे । “ब्रह्मास्त्रं संप्रवक्ष्यामि सद्यःप्रत्ययकारकम् । साधकानां हितार्थाय स्तम्भनाय च वैरि- णाम् ॥ यस्याः स्मरणमात्रेण पवनोऽपि स्थिरायते । प्रणवं स्थिरमायाञ्च ततश्च वगलामुखि ॥ तदन्ते सर्व्वदुष्टानां ततो वाचं मुखं पदम् ॥ स्तम्भयेति ततो जिह्वां कीलयेति पदद्बयम् ॥ बुद्धिं नाशय पश्चात्तु स्थिरमायां समालिखेत् । लिखेच्च पुनरोङ्कारं स्वाहेति पदमन्ततः ॥ षटत्रिंशदक्षरी विद्या सर्व्वसम्पत्करी मता ॥” स्थिरमायां ह्लीँ । तथा च । “वह्रिहीनेन्द्रमायायुक् स्थिरमाया प्रकीर्त्तिता ॥ ॐ ह्लीँ वगलामुखी सर्व्वदुष्टानां वाचं मुखं स्तम्भय जिह्वां कीलय कीलय बुद्धिं नाशय ह्लीँ ॐ स्वाहा ॥ * ॥
तन्त्रान्तरे । “वह्रिहीनेन्द्रमायायुक् वगलामुखि सर्व्वयुक् । दुष्टानां वाचमित्युक्त्वा मुखं स्तम्भय कीर्त्तयेत् ॥ जिह्वां कीलय बुद्धिं तत् विनाशय पदं वदेत् । पुनर्ब्बीजं ततस्तारं वह्निजायावधिर्भवेत् । तारादिका चतुस्त्रिंशदक्षरा वगलामुखी ॥” ॐ ह्लीँ वगलामुखि सर्व्वदुष्टानां वाचं मुखं स्तम्भय जिह्वां कीलय बुद्धिं विनाशय ह्लीँ ॐ स्वाहा । इत्यपि मन्त्रान्तरम् ॥ * ॥
अनयोः पूजा । प्रातःकृत्यादिप्राणायामान्तं विधाय ऋष्यादिन्यासं कुर्य्यात् । यथा, शिरसि नारद- ऋषये नमः । मुखे तृष्टुप्छन्दसे नमः । हृदि वगलामुख्यै देवतायै नमः । गुह्ये ह्लीँ बीजाय नमः । पादयोः स्वाहाशक्तये नमः । “नारदोऽस्य ऋषिं मूर्द्ध्नि तृष्टुप् छन्दश्चतन्मुखे । श्रीवगलामुखीं देवीं हृदये विन्यसेत्ततः । ह्लीँ बीजं गुह्यदेशे तु स्वाहाशक्तिस्तु पादयोः ॥” ततः कराङ्गन्यासौ । ॐ ह्लीँ अङ्गुष्ठाभ्यां नमः । वगलामुखि तर्जनीभ्यां स्वाहा । सर्व्वदुष्टानां मध्यमाभ्यां वषट् । वाचं मुखं स्तम्भय अना- मिकाभ्यां हूँ । जिह्वां कीलय कीलय कनि- ष्ठाभ्यां वौषट् । बुद्धिं नाशय ह्लीँ ॐ स्वाहा करतलपृष्ठाभ्यां फट् । एवं हृदयादिषु । तथा च दिव्यतन्त्रे । “युग्मबाणेषुसप्ताहिशेषार्णैश्च मनूद्भवैः । करशाखासु तलयोः कराङ्गन्यासमाचरेत् ॥” ततो मूलान्ते आत्मतत्त्वव्यापिनीवगलामुखीश्री- पादुकां पूजयामि इति मूलाधारे । मूलान्ते विद्यातत्त्वव्यापिनीवगलामुखीश्रीपादुकां पूज- यामि शिरसि । मूलान्ते शिवतत्त्वव्यापिनी- वगलामुखीश्रीपादुकां पूजयामि सर्व्वाङ्गे । ततश्च । “मूर्द्ध्नि भाले दृशोः श्रोत्रे गण्डयोर्नासयोः पुनः । ओष्ठयोर्म्मुखवृत्ते च दक्षिणांशे च कूर्परे ॥ मणिबन्धेऽङ्गुलेर्म्मूले गले च कुचयोर्हृदि । नाभौ कट्यां गुह्यदेशे वामांशे कूर्परे तथा ॥ मणिबन्धेऽङ्गुलेर्म्मूले ततश्च विन्यसेत् पुनः । दक्षवामे चोरुजान्वोर्गुल् फयोरङ्गुलिमूलयोः । क्रमेण मन्त्रवर्णास्तु न्यस्य ध्यायेत् यथाविधि ॥” * ॥
ततो ध्यानम् । “मध्ये सुराब्धिमणिमण्डपरत्नवेदी- सिंहासनोपरिगतां परिपीतवर्णाम् । पीताम्बराभरणमाल्यविभूषिताङ्गीं देवीं स्मरामि धृतमुद्गरवैरिजिह्वाम् ॥ जिह्वाग्रमादाय करेण देवीं वामेन शत्रुं परिपीडयन्तीम् । गदाभिघातेन च दक्षिणेन पीताम्बराढ्यां द्विभुजां नमामि ॥” एवं ध्यात्वा मानसैः सम्पूज्य बहिःपूजामार- भेत् ॥ * ॥
तत्र प्रथमतोऽर्घ्यस्थापनम् । यथा । अष्टाङ्गुलं चतुरस्रं षिधाय ईशानादिकोणेषु पूर्व्वादिदिक्षु च कुसुमाक्षतरक्तचन्दनैर्म्लौं गण- पतये नमः इत्यनेन गजदानेन संपूज्य तेन मधुना वा अर्घ्यपात्रमापूरयेत् । ततो वारत्रयं विद्यया संपूज्य अङ्गानि विन्यसेत् । ततो धेनु- योनिमुद्रे प्रदर्श्य तेनोदकेन आत्मानं पूजोप- करणञ्चाभ्युक्षयेत् ॥ * ॥
अस्या यन्त्रम् । त्र्यस्रं षडस्रं वृत्तमष्टदलं भूपुरान्वितम् । ततो मूल- मुच्चार्य्यं ॐ आधारशक्तिकमलासनाय नमः । एवं शक्तिपद्मासनाय नमः । पूर्ब्बवत् ध्यात्वा पीठे आवाह्य षडङ्गानि न्यसेत् । ततो मुद्रां प्रदर्श्य पुरतः षडङ्गेन मण्डलं यजेत् । ततो मूलेन मन्त्रयित्वा धेनुयोनिमुद्रे प्रदर्श्य आत्म- विद्याशिवैस्तत्त्वैर्बिन्दुत्रयं मुखे क्षिप्त्वा तर्जन्य- ङ्गुष्ठयोगेन साङ्गावरणां वगलामुखीं तर्पयेत् । ततो यथासम्भवमुपचारैः संपूज्य आवरणपूजा- मारभेत् । षट्कोणेषु पूर्व्वे ॐ सुभगायै नमः । एवमग्निकोणे भगसर्पिण्यै । ईशाने भगाव- हायै । पश्चिमे भगसिद्धायै । नैरृते भग- पातिन्यै । वायौ भगमालिन्यै । ततोऽष्टदल- पत्रेषु ब्राह्म्याद्याः पूज्याः । पत्राग्रेषु ॐ जयायै नमः । एवं विजयायै । अजितायै । अपरा- जितायै । स्तम्भिन्यै । जम्भिन्यै । मोहिन्यै । आकर्षिण्यै । ततो द्वारेषु ॐ भैरवाय नमः । तद्बाह्ये इन्द्रादीन् वज्रादीन् पूजयेत् । ततो मूलेन धूपादिकं दत्त्वा यथाशक्ति जपं विधाय त्रिशूलमुद्रां प्रदर्श्य पुष्पाञ्जलित्रयं दत्त्वा देव्यै- योनिमुद्रां प्रदर्शयेत् । ततो भैरवाय वलिं दद्यात् । ततो विसर्जनान्तं कर्म्म समापयेत् ॥ अस्य पुरश्चरणं लक्षजपः । तथा च । “पीताम्बरधरो भूत्वा पूर्व्वाशाभिमुखस्थितः । लक्षमेकं जपेन्मन्त्रं हरिद्राग्रन्थिमालया ॥ ब्रह्मचर्य्यरतो नित्यं प्रयतो ध्यानतत्परः । प्रियङ्गुकुसुमेनापि पीतपुष्पैश्च होमयेत् ॥” * ॥
द्वितीयमन्त्रस्य तु न्यासादिकं सर्व्वं पूर्ब्बवत् । ध्यानन्तु । “गम्भीराञ्च मदोन्मत्तां स्वर्णकान्तिसमप्रभाम् । चतुर्भुजां त्रिनयनां कामलालसमानसाम् ॥ मुद्गरं दक्षिणे पाशं वामे जिह्वाञ्च वज्रकम् । पीताम्बरधरां देवीं दृढपीनपयोधराम् । हेमकुण्डलभूषाञ्च स्वर्णसिंहासनस्थिताम् ॥” * ॥
अथ प्रयोगः । “कुरुते वाग्गतिस्तम्भं दुष्टानां बुद्धिनाशनम् । जपहोमप्रयोगे च मन्त्रं चाप्ययुतं जपेत् ॥ हरिद्राहरितालाभ्यां लवणं जुहुयान्निशि । स्तम्भयेत् परसैन्यानि नात्र कार्य्या विचारणा ॥ अथवा पीतपुष्पैश्च त्रिमध्वक्तैश्च होमयेत् । स्तम्भनेषु च सर्व्वेषु प्रयोगः प्रत्ययावहः ॥” * ॥
यन्त्रन्तु । “ॐकारयोः संमुखयोरूर्द्ध्वाधःशिरसोर्लिखेत् । मध्यगं नाम साध्यस्य तद्बाह्ये चाक्षरद्बयम् ॥ बीजं द्वितीयवर्गस्य तृतीयं बिन्दुभूषितम् । चतुर्द्दशस्वरोपेतं संलिखेत् पृथिवीगतम् ॥ ठकारेण समावेष्ट्य चतुष्कोणपुटं बहिः । तत्कोणरेखासंसक्तैः शूलैर्व्वज्राष्टकं लिखेत् ॥ त्रिशूलमध्यरेखायाः पृथ्वी बीजानि पार्श्वयोः । अष्टष्वपि च कोणेषु तद्बहिर्व्वगलां लिखेत् ॥ पृथिव्यन्तरितं बाह्ये मातृकापरिमण्डलम् । आवेष्ट्य चाष्टधा पश्चात्तद्बाह्ये स्थिरमायया ॥ निरुध्याङ्कुशबीजेन नादसंमिलिताङ्घ्रिणा । लिखेत् पूर्व्ववदावेष्ट्य पश्चाच्च वगलामुखीम् ॥ पट्टे पाषाणपट्टे वा हरिद्रोन्मत्ततालकैः । दिव्यस्तम्भे मुखस्तम्भे लिखित्वा गाढमाक्रमेत् ॥ विवादे यन्त्रमालिख्य भूर्ज्जे तैरेव वस्तुभिः । कुम्भकारस्य चक्रस्य भ्रमतो विपरीततः ॥ मृत्तिकां समुपादाय वृषभं कारयेत्ततः । यन्त्रं तस्योपरि न्यस्य तालकेन विलिप्य च ॥ तन्नासायां विनिः क्षिप्य पीतरज्जुं निजे गृहे । अर्च्चयेत्तं चतुष्कालं नित्यं पीतोपचारतः । दुष्टस्य स्तम्भयत्येव मुखं वाचस्पतेरपि ॥” इति वगलापरिच्छेदः ॥ * ॥
विश्वसारे । “काली तारा महाविद्या षोडशी भुवनेश्वरी । भैरवी छिन्नमस्ता च विद्या धूमावती तथा ॥ वगला सिद्धविद्या च मातङ्गी कमलात्मिका । एता दश महाविद्याः सिद्धविद्याः प्रकी- र्त्तिताः ॥” अथ वगलामुखीस्तोत्रम् । “मध्ये सुधाब्धिमणिमण्डपरत्नवेदी- सिंहासनोपरिगतां परिपीतवर्णाम् । पीताम्बराभरणमाल्यविभूषिताङ्गीं देवीं भजामि धृतमुद्गरवैरिजिह्वाम् ॥ जिह्वाग्रमादाय करेण देवीं वामेन शत्रुं परिपीडयन्तीम् । गदाभिघातेन च दक्षिणेन पीताम्बरां तां द्विभुजां भजामि ॥ चलत्कनककुण्डलोल्लसितचारुगण्डस्थलीं लसत्कनकचम्पकद्युतिमदिन्दुविम्बाननाम् । गदाहतविपक्षकां कलितलोलजिह्वाञ्चलां स्मरामि वगलामुखीं विमुखसन्मनःस्तम्भिनीम् ॥ पीयूषोदधिमध्यचारुविलसद्रक्तोत्पले मण्डपे यत्सिंहासनमौलिपातितरिपुप्रेतासनाध्यासि- नीम् । स्वर्णाभां करपीडितारिरसनां भ्राम्यद्गदावि- भ्रमा- मित्थं ध्यायति यान्ति तस्य विलयं सद्योऽथ सर्व्वापदः ॥ देवि त्वच्चरणाम्बुजार्च्चनकृते यः पीतपुष्पाञ्जलीन् भक्त्या वामकरे निधाय च मनुं मन्त्री मनो- ज्ञाक्षरम् । पीठध्यानपरोऽथ कुम्भकवशात् बीजं स्मरेत् पार्थिवं तस्यामित्रमुखस्य वाचि हृदये जाड्यं भवेत् तत्क्षणात् ॥ वादी मूकति रङ्कति क्षितिपतिर्वैश्वानरः शीतति क्रोधी शाम्यति दुर्जनः सुजनति क्षिप्रानुगः खञ्जति । गर्व्वी खर्व्वति सर्व्वविच्च जडति त्वन्मन्त्रणा- यन्त्रितः श्रीनित्ये वगलामुखि प्रतिदिन कल्याणि तुभ्यं नमः ॥ मन्त्रस्तावदलं विपक्षदलने स्तोत्रं पवित्रञ्च ते यन्त्रं वादिनियन्त्रणं त्रिजगतां जैत्रञ्च चित्रं न ते । मातः श्रीवगलेति नाम ललितं यस्यास्ति जन्तोर्म्मुखे त्वन्नामग्रहणेन संसदि मुखस्तम्भो भवेद्- वादिनाम् ॥ दुष्टस्तम्भनमुग्रविघ्नशमनं दारिद्र्यविद्रावणं भूभृद्भूशमनं वलन्मृगदृशां चेतःसमाकर्षणम् । सौभाग्यैकनिकेतनं मम दृशोः कारुण्यपूर्णामृतं मृत्योर्म्मारणमाविरस्तु पूरतो मातस्त्वदीयं वपुः ॥ मातर्भञ्जय मे विपक्षवदनं जिह्वाञ्चलां कीलय ब्राह्मीं मुद्रय नाशयाशु धिषणामुग्रां गतिं स्तम्भय । शत्रूं श्चूर्णय देवि तीक्ष्णगदया गौराङ्गि पीताम्बरे विघ्नौघं वगले हर प्रणमतां कारुण्यपूर्णेक्षणे ॥ मातर्भैरवि भद्रकालि विजये वाराहि विश्वा- श्रये श्रीविद्ये संमये महेशि वगले कामेशि रामे रमे । मातङ्गि त्रिपुरे परात्परतरे स्वर्गापवर्गप्रदे दासोऽहं शरणागतः करुणया विश्वेश्वरि त्राहि माम् ॥ संरम्भे चौरसङ्घे प्रहरणसमये बन्धने व्याधिमध्ये विद्यावादे विवादे प्रकुपितनृपतौ दिव्यकाले निशायाम् । वश्ये वा स्तम्भने वा रिपुवधसमये निर्जने वा वने वा गच्छंस्तिष्ठंस्त्रिकालं यदि पठति शिवं प्राप्नुया- दाशु धीरः ॥ नित्यं स्तोत्रमिदं पवित्रमिह यो देव्याः पठत्यादरा- द्वृत्वा यन्त्रमिदं तथैव समरे बाहौ करे वा गले । राजानो हरयो मदान्धकरिणः सर्पा मृगेन्द्रा- दिका- स्ते वै यान्ति विमोहिता रिपुगणा लक्ष्मीः स्थिराः सिद्धयः ॥ त्वं विद्या परमा त्रिलोकजननी विघ्नौघ- संछेदिनी योषाकर्षणकारिणी जनमनःसम्मोहसन्दायिनी । स्तम्भोत्सारणकारिणी पशुमनःसम्मोहसंदायिनी जिह्वाकीलनभैरवी विजयते ब्रह्मादिमन्त्रो यथा ॥ विद्या लक्ष्मीः सर्व्वसौभाग्यमायुः पुत्त्रैः पौत्त्रैः सर्व्वसाम्राज्यसिद्धिः । मानं भोगो वश्यमारोग्यसौख्यं प्राप्तं तत्तद्भतलेऽस्मिन् नरेण ॥ यत् कृतं जपसन्नाहं गदितं परमेश्वरि । दुष्टानां निग्रहार्थाय तद्गृहाण नमोऽस्तु ते ॥ ब्रह्मास्त्रमिति विख्यातं त्रिषु लोकेषु विश्रुतम् । गुरुभक्ताय दातव्यं न देयं यस्य कस्यचित् ॥ पीताम्बरां द्विभुजाञ्च त्रिनेत्रां गात्रकोज्ज्वलाम् । शिलामुद्गरहस्ताञ्च स्मरेत्तां वगलामुखीम् ॥ प्रातर्म्मध्याह्रकाले स्तवपठनमिदं कार्य्यसिद्धिप्रदं स्यात् ॥” इति रुद्रयामले वगलामुखीस्तोत्रं समाप्तम् । इति कृष्णानन्दकृततन्त्रसारः ॥