शब्दकल्पद्रुमः
वग्नुः || पुं, (वक्ति इति । वच् + “वचेर्गश्च ।” उणा० ३ । ३३ । इति नुः गश्चान्तादेशः ।)
वक्ता । इति सिद्धान्तकौमुद्यामुणादिवृत्तिः ॥ वावदूकः । इति संक्षिप्तसारोणादिवृत्तिः ॥ (शब्दः । यथा, ऋग्वेदे । ७ । १०३ । २ । “गवामाहनमायुर्वत्सिनीनां मण्डूकानां वग्नुरत्रासमेति ॥” “मण्डूकानां वग्नुः शब्दः समेति सङ्गच्छते ॥” इति तद्भाष्ये सायणः ॥)