वाचस्पत्यम्
वङ्गज || न० वङ्गात् धातोः जायते जन—ड । १ सिन्दूरे रत्नमा० २ वङ्गदेशजाते त्रि० ।
शब्दकल्पद्रुमः
वङ्गजं || क्ली (वङ्गात् धातुविशेषात् जायते इति । जन् + डः ।) सिन्दूरम् । इति रत्नमाला ॥ वङ्गदेशजाते, त्रि ॥