संस्कृत-शब्दकोशः

वचस्कर वचोग्रह

वचा

वाचस्पत्यम्

वचा ||‍ स्त्री वच—अच् । (वच) इति ख्याते द्रव्ये । “वचोग्रगन्धा कदुका तिक्तोष्णा वान्तिवह्निकृत् । विबन्धाध्मानशूलघ्नी शकृन्मूत्रविशोधनी । अपस्मार- कफोन्मादभूतजन्त्वनिलान् हरेत्” । (खुरासानी वचा) । “पारसीकवचा शुक्ला प्रोक्ता हैमवतीति सव । हैमवत्युदिता तद्वत् शूलं हन्ति विशेषतः ।” अथ (महा- भरी) वचा । यस्या लोके (कुलीवच इति) नामान्तरम् । “सुगन्धाप्यग्रगन्धा च विशेषात् कफकासनुत् । सुस्वरत्व- करी रुच्या हृत्कण्ठमुखशोधिनी” । अपरा सुगन्धा स्थूलग्रन्थिर्यस्या लोके महाभरा इति नास । “स्थूल- ग्रन्थिः सुगन्धान्या ततो हीनगुणा स्मृता” । (सोप- चीनीति) लोके प्रसिद्धा । तस्या गुणाः “द्वीपा- न्तरवचा कद्वी तिक्तोष्णा वह्निदीप्तिकृत् । विवन्धाध्मान शूलघ्नी शकृन्मूत्रविशोधनी । वातव्याधीनपस्मार- मुन्मादत्नुवेदनाम् । व्यपोहति विशेषेण फिरङ्गामय नाशिनी” भावप्र० ।


शब्दकल्पद्रुमः

वचा || स्त्री (वाचयतीति । वच् + णिच् + अच् । निपातनात् ह्रस्वः । यद्वा, अन्तर्भाविण्यर्थात् वचः अच् ।)
औषधविशेषः । वच् इति भाषा । तत्पर्य्यायः । उग्रगन्धा २ षड्ग्रन्था ३ गोलोमी ४ शतपर्व्विका ५ । इत्यमरः । २ । ४ । १०२ ॥ तीक्ष्णा ६ जटिला ७ मङ्गल्या ८ विजया ९ उग्रा १० रक्षोघ्नी ११ । इति रत्नमाला ॥ वच्या १२ लोमशा १३ । इति जटाधरः ॥ भद्रा १४ । अस्या गुणाः । अतितीक्ष्णत्वम् । कटुत्वम् । उष्णत्वम् । कफामग्रन्थिशोफवात- ज्वरातिसारसादभूतनाशित्वम् । वान्तिकारि- त्वञ्च । इति राजनिर्घण्टः ॥ * ॥
अपि च । “वचोग्रगन्धा षड्ग्रन्था गोलोमी शतपर्व्विका । क्षुद्रपत्री च मङ्गल्या जटिलोग्रा च लोमशा ॥ वचोग्रगन्धा कटुका तिक्तोष्णा वान्तिवह्निकृत् । विबन्धाध्मानशूलघ्नी शकृन्मूत्रविशोधिनी ॥ अपस्मारकफोन्मादभूतजन्त्वनिलान् हरेत् ॥” अथ खुरासानी वचा । “पारसीकवचा शुक्ला प्रोक्ता हैमवतीति सा । हैमवत्युदिता तद्वत् शूलं हन्ति विशेषतः ॥” अथ महाभरी वचा । यस्या लोके कुलीजन इति नामान्तरम् । “सुगन्धाप्युग्रगन्धा च विशेषात् कफकासनुत् । सुस्वरत्वकरी रुच्या हृत्कण्ठमुखशोधिनी ॥” अपरा सुगन्धा स्थूलग्रन्थिर्यस्या लोके महाभरा इति नाम । “स्थूलग्रन्थिः सुगन्धान्या ततो हीनगुणा स्मृता ॥” अथ चोपचीनीति लोके प्रसिद्धा । तस्या गुणाः । “द्वीपान्तरवचा कट्वी तिक्तोष्णा वह्निदीप्तिकृत् । विवन्धाध्मानशूलघ्नी शकृन्मूत्रविशोधिनी ॥ वातव्याधीनपस्मारमुन्मादं तनुवेदनाम् । व्यपोहति विशेषेण फिरङ्गामयनाशिनी ॥” इति भावप्रकाशः ॥ * ॥
अपरञ्च । “वचायुष्या वातकफतृष्णाघ्नी स्मृतिवर्द्धिनी ॥” इति राजवल्लभः ॥ * ॥
अन्यच्च । “अद्भिर्व्वा पयसाज्येन मासमेकन्तु सेविता । वचा कुर्य्यान्नरं प्राज्ञं श्रुतिधारणसंयुतम् ॥ चन्द्रसूर्य्यग्रहे पीतं पलमेकं पयोऽन्वितम् । वचायास्तत्क्षणं कुर्य्यान्महाप्रज्ञान्वितं नरम् ॥” इति गारुडे १९८ अध्यायः ॥



Correction: