शब्दकल्पद्रुमः
वज्रकेतुः || पुं, (वज्रं केतुश्चिह्रमस्य ।) नरकराजः । यथा, — “गते वशिष्ठे नरकः शीघ्रं विस्मयसंयुतः ॥” इत्युपक्रम्य ॥ “इति यासीन्मतिस्तस्य वज्रकेतोस्तदा चला । दूतञ्च प्राहिणोत् यस्तं वाणस्य नगरं प्रति ॥” इति कालिकापुराणे ३८ अध्यायः ॥