शब्दकल्पद्रुमः
वज्रजित् || पुं, (वज्रं जयति तस्याघातसहनेनेति । जि + क्विप् । “ह्रस्वस्य पिति कृति तुक् ।” ६ । १ । ७१ । इति तुगागमश्च ।) गरुडः । इति हेमचन्द्रः । २ । १४५ ॥