संस्कृत-शब्दकोशः

वज्रद्रुम वज्रनिर्घोष

वज्रधर

वाचस्पत्यम्

वज्रधर ||‍ पु० वज्रं धरति धृ—अच् । १ इन्द्रे हला० २ पेचके च वज्रभृदादयोऽप्यत्र ।


शब्दकल्पद्रुमः

वज्रधरः || पुं, (धरतीति । धृ + अच् । वज्रस्य धरः ।)
इन्द्रः । इति हलायुधः ॥ (यथा, महा- भारते । ३ । ११३ । २३ । “अरुन्धती वा सुभगा वशिष्ठं लोपामुद्रा वापि यथा ह्यगस्त्यम् । नलस्य वा दमयन्ती यथाभूद् यथा शची वज्रधरस्य चैव ॥”)
जिनविशेषः । इति त्रिकाण्डशेषः ॥ (वल्ला- पुराधिपतिराजविशेषः । यथा, राजतरङ्गि- ण्याम् । ८ । ५४० । “उपरागे नवे सज्जे पार्व्वतीयास्त्रयो नृपाः । चाम्पेयो जासटो वज्रधरो वल्लापुराधिपः ॥”)



Correction: