वाचस्पत्यम्
वज्रमूली || स्त्री वज्रमिव कठिनं मूलमस्याः ङीप् । माष- पण्याम् राजनि० ।
शब्दकल्पद्रुमः
वज्रमूली || स्त्री (वज्रमिव कठिनं मूलं यस्याः । ङीष् ।) माषपर्णी । इति राजनिर्घण्टः ॥ (विवरणमस्या मासपर्णीशब्दे ज्ञातव्यम् ॥)