शब्दकल्पद्रुमः
वज्रवाराही || स्त्री मायादेवी । तत्पर्य्यायः । मारीची २ त्रिमुखा ३ वज्रकालिका ४ विकटा ५ गौरी ६ पोत्रिरथा ७ । इति त्रिकाण्डशेषः ॥