वाचस्पत्यम्
वज्रा || स्त्री वज—रक् । १ गुडूच्याम् २ स्नुह्याञ्च मेदि० ३ दुर्गायां देवीपु० ४ स्नुहीभेदे ङीषन्तोऽपि मेदि० ।
शब्दकल्पद्रुमः
वज्रा || स्त्री (वजति गच्छतीति । वज गतौ + “ऋज्रेन्द्रेति ।” उणा० २ । २८ । इति रक् । टाप् ।)
स्नुहीवृक्षः । गुडूची । इति मेदिनी । रे, ८१ ॥ दुर्गा । यथा, —
“वज्राङ्कुशकरी देवी वज्रा तेनोपगीयते ॥” इति देवीपुराणे ४५ अध्यायः ॥