शब्दकल्पद्रुमः
वज्राङ्गः || पुं, (वज्रमिव अङ्गं यस्य ।) सर्पः । इति राजनिर्घण्टः ॥ वक्राङ्ग इति वा पाठः । वज्र- तुल्याङ्गयुक्ते, त्रि ॥