शब्दकल्पद्रुमः
वज्राभः || पुं, (वज्रस्य हीरकस्य आभा इव आभा यस्य ।) दुग्धपाषाणः । इति राजनिर्घण्टः ॥ हीरकतुल्यदीप्तिमति, त्रि ॥