संस्कृत-शब्दकोशः

वज्रास्थिशृङ्खला वज्री

वज्रिन्

वाचस्पत्यम्

वज्रिन् ||‍ पु० वज्रमस्त्यस्य इनि । १ इन्द्रे अमरः २ पेचके च । ३ बुद्धे मेदि० ।


शब्दकल्पद्रुमः

वज्री || [न्] पुं, (वज्रोऽस्त्यस्येति । वज्र + “अत इनिठनौ ।” ५ । २ । ११५ । इति इनिः ।)
इन्द्रः । इत्यमरः । १ । १ । ४५ ॥ (यथा, रघुः । ९ । २४ । “यमकुबेरजनेश्वरवज्रिणां समधुरं मधुरञ्चितविक्रमम् ॥”)
बुद्धः । इति मेदिनी । ने, १२६ ॥ (वज्र- विशिष्टे, त्रि । यथा, महाभारते । १३ । १४ । ३८१ । “पिनाकिनं वज्रिणं तीक्ष्णदंष्ट्रं शुभाङ्गदं व्यालयज्ञोपवीतम् ॥)



Correction: