संस्कृत-शब्दकोशः

वज्री वञ्चथ

वञ्चक

वाचस्पत्यम्

वञ्चक ||‍ पुंस्त्री० वन्च—णिच्—ण्वुल् । १ शृगाले अमरः स्त्रियां ङीष् २ गृहबभ्रौ च । ३ खले ४ प्रतारके च त्रि० मेदि० ।


शब्दकल्पद्रुमः

वञ्चकः || त्रि (वञ्चयते इति । वञ्च + णिच् + ण्वुल् ।)
खलः । धूर्त्तः । इति मेदिनी । के, १५४ ॥ (यथा, कलाविलासे । १ । ३९ । “शृणु पुत्त्र वञ्चकानां सकलकलाहृदयसार- मतिकुटिलम् । ज्ञाते भवन्ति यस्मिन् क्षणरुचिचपलाः श्रियो- ऽप्यचलाः ॥”)


शब्दकल्पद्रुमः

वञ्चकः || पुं, (वञ्चयते प्रतारयतीति । वञ्च + णिच् + ण्वुल् ।)
शृगालः । इत्यमरः ॥ गृह- वभ्रुः । इति मेदिनी । के, १५४ ॥



Correction: