वाचस्पत्यम्
वञ्जुल || पु० वन्च—उलच् पृषो० चस्य जः । १ तिनिशवृक्षे २ अशोकवृक्षे अमरः । ३ वेतसवृक्षे मेदि० ४ स्थलपद्मवृक्षे शब्दच० । ५ पक्षिभेदे च हला० । ६ बहुदुग्धायां गवि स्त्री हेमच० । ७ वक्रे त्रि० वञ्जुलप्रियः ।
शब्दकल्पद्रुमः
वञ्जुलः || पुं, (वजतीति । वज गतौ + बाहुलकात् । उलच् नुम्च ।)
तिनिशवृक्षः । (तथास्य पर्य्यायः । “तिनिशः स्यन्दनो नेमी रथद्रुर्व्वञ्जुलस्तथा ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)
अशोकवृक्षः । इत्यमरः । २ । ४ । २७ ॥ स्थलपद्मवृक्षः । इति शब्दरत्नावली ॥ पक्षि- विशेषः । इति हलायुधः ॥ वेतसवृक्षः । इति मेदिनी । ले, १२९ ॥ (अस्य पर्य्यायो यथा, —
“वेतसो नम्रकः प्रोक्तो वानीरो वञ्जुलस्तथा । अभ्रपुष्पश्च विदुलो ह्यथ शीतश्च कीर्त्तितः ॥” इति भावप्रकाशः ॥ यथा च रामायणे । ६ । ४ । ७९ । “चिरविल्वा मधूकाश्च वञ्जुला वकुलास्तथा ॥”)