संस्कृत-शब्दकोशः

वटक वटपत्रा

वटपत्र

वाचस्पत्यम्

वटपत्र ||‍ पु० वटस्येव पत्रमस्य । १ सितार्जकवृक्षे राजनि० । २ पाषाणभेदीलतायां स्त्री ङीष भावप्र० । “वटपत्री कषायोष्णा योनिसूत्रगदापहा” ३ त्रिपुरमालीवृक्षे रत्नमा० टाप् ।


शब्दकल्पद्रुमः

वटपत्रः || पुं, (वटस्येव पत्रं यस्य ।)
सितार्जकः । इति राजनिर्घण्टः ॥ (तथास्य पर्य्यायः । “वर्व्वरी तुवरी तुङ्गी खरपुष्पाजगन्धिका । पर्णाशस्तत्र कृष्णे तु कठिल्लककुठेरकौ ॥ तत्र शुक्लेऽर्ज्जकः प्रोक्तो वटपत्रस्तोऽपरः ॥” इति भावप्रकाशम्य पूर्ब्बखण्डे प्रथमे भागे ॥)



Correction: