शब्दकल्पद्रुमः
वटपत्री || स्त्री (वटस्येव पत्रं यस्याः । गौरादि- त्वात् ङीष् ।)
पाषाणभेदीविशेषः । तत्पर्य्यायः । इनानी २ ऐरावती ३ गोधावती ४ इरावती ५ श्यामा ६ खट्टाङ्गनामिका ७ । अस्याः गुणाः । हिमत्वम् । गोल्यत्वम् । मेहकृच्छ्रविनाशित्वम् । बलदातृत्वम् । व्रणहन्तृत्वम् । किञ्चिद्दीपन- कारित्वञ्च । इति राजनिर्घण्टः ॥ अपि च । “वटपत्री तु कथिता मोहिन्यैरावती बुघैः । वटपत्री कषायोष्णा योनिमूत्रगदापहा ॥” इति भावप्रकाशः ॥