संस्कृत-शब्दकोशः

वटिका वटु

वटी

वाचस्पत्यम्

वटी ||‍ स्त्री वट—अच् गौरा० ङीष् । १ रज्जौ अमरः गोलाकारे (वडी) पदार्थे भावप्र० स्वार्थे क ह्रस्वः । वटिकाप्यत्र “वटिका अथ कथ्यन्ते तन्नाम गुटिका वटी । मोदको वटिका पिण्डी गुडो वर्त्तिस्तथोच्यते । लेहवत् साध्यते वह्नौ गुडो वा शर्कराथ वा । गुग्गुलुर्वा क्षिपेत्तत्र चूर्णं तन्निर्मिता वटी ।” तत्र वह्निसिद्धे गुडादौ । “कुर्य्यादवह्निसिद्धेन क्वचिद्गुग्गुलुना वटी” । द्रवेन मधुना वापि गुटिकां कारयेद्बुधः । सिता चतुर्गुणा देया वटीषु द्विगुणो गुडः । चूर्णे चूर्णसमः कार्य्यो गुग्गुलु- र्मधु तत्समम् ।” तत्समम् चूर्णसमम् “द्रवं तु द्विगुणं देयं मोदकेषु भिषग्वरैः” । द्रवं द्रवरूपद्रव्यम् । “कर्षप्रमाणं तन्मात्रा बलं दृष्ट्वा प्रयुज्यते” । बलमिति कालादेरप्युप- लक्षणम्” । नदीवटाख्ये २ वृक्षभेदे राजनि० ।


शब्दकल्पद्रुमः

वटी || त्रि रज्जुः । इत्यमरः । २ । १० । २७ ॥


शब्दकल्पद्रुमः

वटी || स्त्री (वट् + अच् । गौरादित्वात् ङीष् ।)
वटिका । इति भावप्रकाशः ॥ वृक्षविशेषः । तत्पर्य्यायः । नदीवटः २ यज्ञवृक्षः ३ सिद्धार्थः ४ वटकः ५ अमरा ६ भृङ्गिणी ७ क्षीरकाष्ठा ८ । अस्या गुणाः । कषायत्वम् । मधुरत्वम् । शिशिरत्वम् । पित्तनाशित्वम् । दाहतृष्णा- श्रमश्वासविषच्छर्द्दिशमनत्वञ्च । इति राज- निर्घण्टः ॥



Correction: