वाचस्पत्यम्
वटु || पु० वट—उ । १ माणवके २ ब्रह्मचारिणि च हेमच० ।
शब्दकल्पद्रुमः
व(ब)टुः || पुं, (वटतीति । वट् + “कटिवटिभ्याञ्च ।” उणा० १ । ९ । इति उः ।)
माणवकः । यथा, —
“वटुः पुनर्म्माणवको भिक्षास्य ग्रासमात्रकम् ॥” इति हेमचन्द्रः ॥ ब्रह्मचारी । यथा । वटुर्व्वर्णी ब्रह्मचारी । इति शब्दरत्नावली ॥ (यथा, महाभारते । १ । १८९ । १५ । “तस्माद्ब्रुवन्तु सर्व्वेऽत्र वटुरेष धनुर्म्महान् । आरोपयतु शीघ्रं वै तथेत्यूचुर्द्विजर्षभाः ॥”)
कुटन्नटवृक्षः । यथा, —
“मण्डूकपर्णः श्योणाकः शुकनासः कुटन्नटः । ऋक्षो वटुदीर्घवृन्तो दीर्घवृन्तक इत्यपि ॥” इति च शब्दरत्नावली ॥ बालकः । यथा, —
“बालको माणवो बालः किशोरो वटुरि- त्यपि ॥” इत्यपि शब्दरत्नावली ॥